|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.90. अध्यायः 090
Mahabharata - Bhishma Parva - Chapter Topics
अर्जुनात्मजेन इरावता शकुनेरनुजानां वधः ॥ 1 ॥ आर्श्चशृङ्गिनाम्ना राक्षसेन इरावतो वधः ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-90-0x(4170)(42700)
वर्तमाने तथा रौद्रे राजन्वीरवरक्षये।
शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ॥ 6-90-1(42701)
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा।
अभ्यद्रवत संग्रामे पाण्डवानां वरूथिनीम् ॥ 6-90-2(42702)
ततः काम्भोजमुख्यानां नदीजानां च वाजिनाम् ।
आरट्टानां महीजानां सिन्धुजानां च सर्वशः ॥ 6-90-3(42703)
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् ।
वाजिनां बहुभिः सङ्ख्ये समन्तात्परिवारयन् ॥ 6-90-4(42704)
ये चापरे तित्तिरिजा जवना वातरंहसः ।
सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः ॥ 6-90-5(42705)
हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली ।
अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपाः ॥ 6-90-6(42706)
अर्जुनस्य सुतः श्रीमानिरावान्नाम वीर्यवान् ।
सुतायां नागराजस्य जातः पार्थेन धीमता ॥ 6-90-7(42707)
ऐरावतेन सा दत्ता अनपत्या महात्मना ।
पत्यौ हते सुपर्णेन कृपणा दीनचेतना ॥ 6-90-8(42708)
कार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् ।
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ॥ 6-90-9(42709)
स नागलोके संवृद्धो मात्रा च परिरक्षितः ।
पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ॥ 6-90-10(42710)
खमुत्पत्य महाराज नागराट् सत्यविक्रमः ।
इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ॥ 6-90-11(42711)
सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः ।
अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ॥ 6-90-12(42712)
न्यवेदयत चात्मानमर्जुनस्य महात्मनः ।
इरावानस्मि भद्रं ते पुत्रश्चाहं तव प्रभो ॥ 6-90-13(42713)
मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् ।
तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ॥ 6-90-14(42714)
परिष्वज्य सुतं चापि आत्मनः सदृशं गुणैः ।
प्रीतिमाननयत्पार्थो देवराजनिवेशनम् ॥ 6-90-15(42715)
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप ।
प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ॥ 6-90-16(42716)
`स चापि नरशार्दूलः शार्दूलसमविक्रमः।'
अब्रवीच्च तदा पार्थमयमस्मि तवानघ ॥ 6-90-17(42717)
स्थितः प्रेष्यश्च पुत्रश्च सर्वथा त्वं प्रशाधि माम् ।
कं करोमि च ते कामं कं च कामं त्वमिच्छसि ॥ 6-90-18(42718)
परिष्वज्य सुतं प्रेम्णा वासविः प्रत्युवाच तम्।
प्रीतिपूर्वं च कार्यं च कार्या प्रीतिश्च मानदः ॥' 6-90-19(42719)
युद्धकाले तु साहाय्यं दातव्यं नो भवेदिति ।
बाढमित्येवमुक्त्वा तु युद्धकाल इहागतः ॥ 6-90-20(42720)
कामवर्णजवैरश्वैः सर्वतः शुशुभे वृतः ।
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः ॥ 6-90-21(42721)
उत्पेतुः सहसा राजन्हंसा इव महोदधौ ।
ते त्वदीयान्समासाद्य हयसंघान्मनोजवान् ॥ 6-90-22(42722)
क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् ।
निपेतुः सहसा राजन्सुवेगाभिहता भुवि ॥ 6-90-23(42723)
निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् ।
शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ॥ 6-90-24(42724)
तथैव तावका राजन्समेत्यान्योन्यमाहवे ।
परस्परवधं घोरं चक्रुस्ते हयसादिनः ॥ 6-90-25(42725)
तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम् ।
उभयोरपि संशान्ता हयसङ्घाः समन्ततः ॥ 6-90-26(42726)
प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः ।
विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ॥ 6-90-27(42727)
ततः क्षीणे हयानिके किंचिच्छेषे च भारत ।
सौबलस्यानुजाः शूरा निर्गता रणमूर्धनि ॥ 6-90-28(42728)
वायुवेगसमस्पर्शाञ्जवे वायुसमांश्च ते।
आरुह्य बलसंपन्नान्वयःस्थांस्तुरगोत्तमान् ॥ 6-90-29(42729)
गजो गवाक्षो वृषकश्चर्मवानार्जयः शुकः।
षडेते बलसंपन्ना निर्ययुर्महतो बलात् ॥ 6-90-30(42730)
वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः ।
सन्नद्धा युद्धकुशला रौद्ररूपा महाबलाः ॥ 6-90-31(42731)
तदनीकं महाबहो भित्त्वा परमदुर्जयम् ।
बलेन महता युक्ताः स्वर्गाय विजयैषिणः ॥ 6-90-32(42732)
विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ।
तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् ॥ 6-90-33(42733)
अब्रवीत्समरे योधान्स्वान्विचित्रहयस्थितान् ।
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः ॥ 6-90-34(42734)
हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् ।
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः ॥ 6-90-35(42735)
जघ्नुस्तेषां बलानीकं दुर्जयं समरे परैः ।
तदनीकमनीकेन समरे वीक्ष्य पातितम् ॥ 6-90-36(42736)
अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे ।
इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ॥ 6-90-37(42737)
ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम्।
ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ॥ 6-90-38(42738)
इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः ।
स्रवता रुधिरेणाक्तस्तोत्रैर्विद्ध इव द्विपः ॥ 6-90-39(42739)
उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः ।
एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ॥ 6-90-40(42740)
इरावानपि संक्रुद्धः सर्वास्तान्निशितैः शरैः ।
मोहयामास समरे विद्ध्वा परपुरंजयः ॥ 6-90-41(42741)
प्रासानुत्कृष्य तरसा स्वशरीरादरिन्दमः ।
तैरेव ताडयामास सुबलस्यात्मजान्रणे ॥ 6-90-42(42742)
विकृष्य च शितं खङ्गं गृहीत्वा च शरावरम् ।
पदातिर्द्रुतमागच्छज्जिघांसुः सौबलान्युधि ॥ 6-90-43(42743)
ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः ।
भूयः क्रोधसमाविष्टा इरावन्तमभिद्रुताः ॥ 6-90-44(42744)
इरावानपि खङ्गेन दर्शयन्पाणिलाघवम् ।
अभ्यवर्तत देवांश्च मानुषांश्चैव संयुगे ॥ 6-90-45(42745)
लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः ।
अन्तरं नाभ्यगच्छन्त चरन्तः शीघ्रगैर्हयैः ॥ 6-90-46(42746)
भूमिष्ठमथ तं सह्ख्ये ह्यन्तरिक्षादवप्लुतम् ।
परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ॥ 6-90-47(42747)
अथाभ्याशगतानां तेषां गात्राण्यकृन्तत ।
असिहस्तोऽस्त्रहस्तानां तेषां गात्राण्यकृन्तत ॥ 6-90-48(42748)
आयुधानि च सर्वेषां बाहूनपि विभूषितान्।
अपतन्त निकृत्ताङ्गा मृता भूमौ गतासवः ॥ 6-90-49(42749)
वृषकस्तु महाराज बहुधा विपरिक्षतः।
अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ॥ 6-90-50(42750)
तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः।
अभ्यधावत संक्रुद्धो राक्षसं घोरदर्शनम् ॥ 6-90-51(42751)
आर्श्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम्।
वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ॥ 6-90-52(42752)
पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली।
मायावी विप्रियं कर्तुमकार्षीन्मे बलक्षयम् ॥ 6-90-53(42753)
त्वं च कामगमस्तात मायास्त्रे च विशारदः ।
कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ॥ 6-90-54(42754)
बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः ।
प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ॥ 6-90-55(42755)
स योधैर्युद्धकुशलैर्विमलप्रासयोधिभिः ।
वीरैः प्रहारिभिर्युक्तैः स्वैरनीकैः समावृतः ॥ 6-90-56(42756)
[हतशेषैर्महाराज द्विसाहस्त्रैर्हयोत्तमैः]
निहन्तुकामः समरे इरावन्तं महाबलम् ॥ 6-90-57(42757)
इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी
हन्तुकाममयित्रघ्नो राक्षसं प्रत्यवारयत् ॥ 6-90-58(42758)
तमापतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः।
त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ॥ 6-90-59(42759)
तेन मायामयाः सृष्टा हयास्तावन्त एव हि।
स्वारूढा राक्षसैर्घोरैः शूलपट्टसधारिभिः ॥ 6-90-60(42760)
ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः।
अचिराद्गमयामासुः प्रेतलोकं परस्परम् ॥ 6-90-61(42761)
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ।
संग्रामे समतिष्ठेतां यथा वै वृत्रवासवौ ॥ 6-90-62(42762)
आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् ।
इरावाथ संरब्धः प्रत्यधावन्महाबलः ॥ 6-90-63(42763)
समभ्याशगतस्याजौ तस्य खङ्गेन दुर्मदः ।
चिच्छेद कार्मुकं दीप्तं शरवापं च कञ्चुकम् ॥ 6-90-64(42764)
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत्।
इरावन्तमभिक्रुद्धं मोहयन्निव मायया ॥ 6-90-65(42765)
ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम्।
विमोहयित्वा मायाभिसत्स्य गात्रामि सायकैः ॥ 6-90-66(42766)
चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः ।
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः ॥ 6-90-67(42767)
संबभूव महाराज समवाप च यौवनम् ।
माया हि सहराज समवाप च यौवनम् ॥ 6-90-68(42768)
एवं तद्राक्षसस्याङ्गं छिन्नंछिन्नं व्यरोहत ।
इरावानपि संक्रुद्धो राक्षसं त महाबलम् ॥ 6-90-69(42769)
परश्वथेन तीक्ष्णेन चिच्छेद च पुनः पुनः ।
स तेन बलिना वीरश्छिद्यमान इव द्रुमः ॥ 6-90-71aराक्षसो व्यनदद्धोरं स शब्दस्तुमुलोऽभवत्।
परश्वथक्षतं रक्षः सुस्राव बहुशोणितम् ॥ 6-90-70(42770)
ततश्रुक्रोध बलवांश्चक्रे वेगं च संयुगे।
आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्चितम् ॥ 6-90-72(42771)
कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे ।
अर्जुनस्य सुतं वीरमिरावन्तं यशस्विनम् ॥ 6-90-73(42772)
संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम्।
तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः ॥ 6-90-74(42773)
इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे।
तस्य क्रोधाभिभूतस्य समरेष्वनिवर्तिनः ॥ 6-90-75(42774)
योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान्।
स नागैर्बहुभी राजन्निरावान्संवृतो रणे ॥ 6-90-76(42775)
दधार सुमहद्रूपमनन्त इव भोगवान्।
ततो बहुविधैर्नागैश्छादयामास राक्षसम् ॥ 6-90-77(42776)
छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः।
सौपर्णं रूपमास्थाय भक्षयामास पन्नगम् ॥ 6-90-78(42777)
मायया भक्षिते तस्मिन्नन्वये तस्य मातृके ।
विमोहितमिरावन्तं न्यहनद्राक्षसोऽसिना ॥ 6-90-79(42778)
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् ।
इरावतः शिरो रक्षः पातयामास भूतले ॥ 6-90-80(42779)
तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे।
विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ॥ 6-90-81(42780)
तस्मिन्महति संग्रामे तादृशे भैरवे पुनः।
महान्व्यतिकरो घोरः सेनयोः समपद्यत ॥ 6-90-82(42781)
गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः ।
रथाश्वा दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ॥ 6-90-83(42782)
तथा पत्तिरथौघाश्च हयाश्च बहवो रणे।
रथिभिर्निहता राजंस्तव तेषां च संकुले ॥ 6-90-84(42783)
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम्।
जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ॥ 6-90-85(42784)
तथैव तावका राजन्सृञ्जयाश्च सहस्रशः।
जुह्वतः समरे प्राणान्निजघ्रुरितरेतरम् ॥ 6-90-86(42785)
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।
बाहुभिः समयुध्यन्त समवेताः परस्परम् ॥ 6-90-87(42786)
तथा मर्मातिगैर्भीष्मो निजघान महारथान्।
कम्पयन्समरे सेनां पाण्डवानां परंतपः ॥ 6-90-88(42787)
तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः।
दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ॥ 6-90-89(42788)
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् ।
अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ॥ 6-90-90(42789)
तथैव भीमसेनस्य पार्षतस्य च भारत।
रौद्रमासीद्रणे युद्धं सात्यकस्य च धन्विनः ॥ 6-90-91(42790)
दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् ।
एक एव रणे शक्तो निहन्तुं सर्वसैनिकान् ॥ 6-90-92(42791)
किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः।
इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः॥ 6-90-93(42792)
वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ ।
उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ॥ 6-90-94(42793)
आविष्टा इव युध्यन्ते रक्षोभूतैर्महाबलैः ।
तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ॥ 6-90-95(42794)
न स्म पश्यामहे कंचित्प्राणान्यः परिरक्षति।
दैवासुराभे समरे तस्मिन्योधा नराधिप ॥ ॥ 6-90-96(42795)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे नवतितमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-90-3 वाजिनां वेगवतां वाजिनामश्वानां बहुभिर्गणैः परिवारयन्निति गणशब्दाध्याहारेण द्वयोः संबन्धः ॥ 6-90-6 पाण्डवस्यार्जुनस्य सुत इरावान् ॥ 6-90-7 नागराजस्य ऐरावतस्य ॥ 6-90-10 पितृव्येण अश्वसेनेन ॥ 6-90-57 अयमर्धः श्लोको दाक्षिणात्यकोशेषु नास्ति खo झo पुस्तकयोरस्ति ॥ 6-90-95 आविष्टाः ग्रहाद्याविष्टाः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|